षट्संज्ञकेभ्य उत्तरयोः जश्शसोर् लुक् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। उत्तमषत्। यत्र तु उपसर्जनं षट् ततो न भवति, प्रियषषः, प्रियपञ्चानः इति।
"पञ्च, सप्त" इति। "नलोपः प्रातिपदिकान्तस्य"
८।२।७ इति नलोपः।
"षट्परधानात्? तदन्तादपि भवति" इति। अत्र पूर्वको हेतुर्वकतव्यः। "यत्र तु" इत्यादि। अर्थस्येदं ग्रहणं बहुलवचनादवसितम्()। स चार्थो द्विविधः--प्रधानोऽप्रधानश्च। तत्र "प्रदाने कार्यसम्प्रत्ययः" (व्या।प।१२०) इति यत्रार्थस्य प्राधान्यं तत्रैव भवति, न तु यत्रार्थस्याप्राधान्यं तत्र। एष च हेतुः प्रियाष्टान इत्यत्रौश्त्वाभावेऽपि वेदितव्यः। "प्रियषषः" इति। प्रियाषडेषामिति बहुव्रीहिः। अत्रान्यपदार्थस्य प्राधान्यम्(), षडर्थस्तु तत्र गुणभावादप्रधानः॥